तमिल-आदिकवि: तिरुवल्लूवरमहोदय: |
डॉ. श्रीहरि: वासुदेव: गोकर्णकर:
तिरु इति शब्दस्य अर्थ: ‘श्री:’ तथा कुरल् नाम लघु इति | वस्तुत: कुरल् इति तमिलभाषाया: लघुतमं छन्द: यस्मिन् प्रथमपङ्क्तौ चत्वार: शब्दा: तथा द्वितीयपङ्क्तौ केवलं शब्दत्रयं वर्तते | 1330 कुरलेषु रचित: अतीव प्राचीनतम: ग्रन्थोऽयम् इदानीमपि विश्वस्य कृते मार्गदर्शक: अस्ति |
|| धर्मकाण्ड: ||
(ईश्वरवन्दनम् 1)
अकारादेव निर्यान्ति समस्तान्यक्षराणि च |
चराचरप्रपञ्चोऽयमीश्वरादेव जायते ||
(यतिवैभवम् 26)
सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनै: |
ये कुर्वन्त्युत्तमास्ते स्यु: अन्येत्वधममध्यमा: ||
(धर्मवैशिष्ट्यम् 34)
यत् कृतं शुद्धमनसा स धर्म इति कथ्यते |
यच्छुद्धिरहितं कर्म केवलाडम्बरार्थकम् ||
(गार्हस्थ्यम् 45)
गार्हस्थ्यजीवनं यत् स्यात् स्नेहधर्मसमन्वितम् |
तदेव सार्थकं लोके तद्धि गार्हस्थ्यमुच्यते ||
(पत्नी 51)
दयादिगुणसम्पन्ना भर्तुरायानुसारत: |
करोति जीवनं याऽत्र सैव भार्येति कथ्यते ||
(पुत्रभाग्यम् 66)
अस्पष्टमधुरं पुत्रभाषितं च शृणोति य: |
स एव कथयेत् रम्यं वीणावेण्वादिवादितम् ||
(Here, Putra is a small kid.)
(अतिथिसत्कार: 86)
तोषयित्वाऽतिथिं प्राप्तमन्यान् अतिथिसत्तमान् |
यो हि प्रतीक्षते सोऽयं देवानामतिथिर्भवेत् ||
( ताटस्थ्यम् 120)
अन्येषामपि वस्तूनि स्वकीयानीव पश्यता |
क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते | |
( निग्रहशीलता 129)
वह्निजः स्यात् व्रणा: शान्ता: चिह्नमात्रं न शाम्यति |
वागग्निजव्रणस्येह नैवोपशमनं भवेत् ||
( परदारपराङ्मुखता 147)
धर्ममार्गेण गार्हस्थ्यसेवनेनेह जीवत: |
अन्यदीयेषु दारेषु मतिरेव न जायते ||
|| अर्थकाण्डः ||
( दौत्यम् 686)
नीतिज्ञा: स्फुतवक्ता च धैर्यवान् रिपुसन्निधौ |
कालानुकूलप्रज्ञावान् दूत: स्यात् शास्त्रसम्मत: | |
( सभाकम्पविहीनता 725)
( सैन्यप्रयोजनम् 766)
वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता |
राजविश्वासपात्रत्वं चत्वार: सैन्यगा गुणा: ||
( द्यूतम् 936)
दारिद्य्रदेवता द्यूतनाम्नी यं तु समाश्रयेत् |
इह सर्वसुखैर्मुक्त: स परे नरकं व्रजेत् ||
|| कामकाण्ड: ||
( दर्शनवितर्कम् 1084)
नारीगुणसमेतायास्तस्यास्ते क्रूरचक्षुषी |
द्रष्टॄणां प्राणनाशार्थमुद्यक्ते तिष्ठत: सदा ||
( भावपरिज्ञानम् )
अस्यास्तु स्वञ्जने नेत्रे दॄष्टिद्वयसमन्विते |
मह्यं रोगं ददात्येका शमयत्यपरा तु तम् || 1091
मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता |
मय्यपश्यति मां दॄष्ट्वा कुर्यान्मन्दस्मितं तु सा || 1094
( सम्भोगसुखम् 1104)
कामाग्निं नूतनमिममेषा प्राप्तवती कुत: |
योऽग्नि: सन्निहित: शीत: दूरस्थ: प्रदहत्ययम् ||
( लावण्यमहिमा 1111)
सुमेषु मृदु त्वं हि शिरीष विजयी भव |
त्वत्तोऽपि मार्दवयुता मत्प्रिया¸ गर्वमुत्सृज ||
*****
To know more kindly visit.