।। रक्षासप्तकम् ।।
विनयामृतधनगोधनचन्दन वादय मुरलिं मधुमधुरम् ।(30)
गोपचित्त आयाहि तु हृदयं च सुक्षीरसागरतः ।।1।।(28)
गोपचित्त आयाहि तु हृदयं च सुक्षीरसागरतः ।।1।।(28)
कलियुगमानवमदने लुप्ता नारी जाता तु भ्रष्टा ।(30)
तारक एहि दीनजनानां त्वं सुक्षीरसागरतः ।।2।।(28)
विश्वेऽस्मिन् किं प्रचलति सर्वे कामार्थं प्रति धावन्ति ।(30)
धर्ममोक्षकारणाय एहि रे सुक्षीरसागरतः ।।3।।(28)
त्यागेन हि संस्कृतस्य सद्यः संस्कृतिर्गता च संकृतिम् ।(30)
संस्कृतेस्तु रक्षणाय एहि रे सुक्षीरसागरतः ।।4।।(28)
न्यूना वृक्षा जलमपि न्यूनं न्यूनं सृष्टेर्वैभवम् ।(30)
पूर्वं हाहाकारादेहि रे सुक्षीरसागरतः।।5।।(28)
त्वमेव रक्षणकर्तास्माकं पालकः सर्वभूतानाम् ।(30)
स्वधर्मस्य पालनाय एहि रे सुक्षीरसागरतः।।6।।(28)
अन्यथा न मे शरणं कोऽपि त्वं हि त्राता सर्वेषाम् ।(30)
भक्तानां रक्षणाय एहि रे सुक्षीरसागरतः।।7।।(28)
।। इति श्रीहरिविरचितं रक्षासप्तकं सम्पूर्णम् ।।
।। रक्षासप्तकम् ।।
07:38
स्तोत्रगंगा