कलाप्रीतिरस्या हि नृत्येऽपि गीते
यया गुर्जरीमातृभाषा सुलेभे ।
तथाप्युर्दूहिन्द्याङ्ग्लभाषाप्रभुत्वम्
नमो भाग्यरेखे नमः कोटिवारम् ।।1।।
सदा कार्यकौशल्यराज्ञीति ज्ञाता
मुदा लब्धनीतिः सुवाचि पटुत्वम् ।
सदा राजते शारदा तन्मुखे हि
नमो भाग्यरेखे नमः कोटिवारम् ।।2।।