।। Gondhal in Sanskrit ।।
अयि भवानि, ते हि कृपा या तारयति भक्तान्
अगाधमहिमा ते हि हे मात: त्रायते संकटात्
अयि, कृपाकरी ममोपरि हि रात्रिञ्जागरयामि
अयि, कृपाकरी ममोपरि सर्वरात्रिञ्जागरयामि
अद्य गोन्धळाय एऽऽऽऽऽहि ।।
अयि, कृपाकरी ममोपरि हि रात्रिञ्जागरयामि
अयि, कृपाकरी ममोपरि सर्वरात्रिञ्जागरयामि
अद्य गोन्धळाय एऽऽऽऽऽहि ।।
गोन्धळस्स्थापितो भवानि गोन्धळाय एहि
गोन्धळस्स्थापितो मया हे गोन्धळाय एहि ।।
कण्ठे माला कपर्दिकानां नुपूरबद्धौ चरणौ
कण्डोलहस्ते, प्रियं बहु ते वादयामि संबळम्
धगद्धगज्ज्वालात आयाता त्वं हि जगन्मातः
नामनि उच्चारिते भवामो भक्तिपूर्णा अम्ब
कण्डोलहस्ते, प्रियं बहु ते वादयामि संबळम्
धगद्धगज्ज्वालात आयाता त्वं हि जगन्मातः
नामनि उच्चारिते भवामो भक्तिपूर्णा अम्ब
अयि, कृपाकरी ममोपरि हि रात्रिञ्जागरयामि
अयि, कृपाकरी ममोपरि सर्वरात्रिञ्जागरयामि
अद्य गोन्धळाय एऽऽऽऽऽहि
गोन्धळस्स्थापितो भवानि गोन्धळाय एहि
अयि, कृपाकरी ममोपरि सर्वरात्रिञ्जागरयामि
अद्य गोन्धळाय एऽऽऽऽऽहि
गोन्धळस्स्थापितो भवानि गोन्धळाय एहि
गोन्धळस्स्थापितो मया हे गोन्धळाय एहि ।।
उधं उधं उधं उधं उधं
सुखाय माणिक्यमौक्तिकानि मण्डप आकाशस्य
बद्धाञ्जलिना करुणेच्छा ते उद्धर मे त्वं नाम
अधर्महन्त्रि, एतद्धर्मस्त्वया हि सुत्रातः
महिषासुरमर्दिनि, पुनः दैत्योऽयं मत्तः
अद्य महापदि अस्मत्प्रति शीघ्रं त्वम् आयाहिबद्धाञ्जलिना करुणेच्छा ते उद्धर मे त्वं नाम
अधर्महन्त्रि, एतद्धर्मस्त्वया हि सुत्रातः
महिषासुरमर्दिनि, पुनः दैत्योऽयं मत्तः
अद्य गोन्धळायएऽऽऽऽऽहि
गोन्धळस्स्थापितो भवानि गोन्धळाय एहि
गोन्धळस्स्थापितो भवानि गोन्धळाय एहि
गोन्धळस्स्थापितो मया हे गोन्धळाय एहि
उधं उधं उधं उधं उधं
अम्बामातुर्मे .... उधं उधं उधं उधं उधं
वद भवानीमातुर्मे .... उधं उधं उधं उधं उधं
सप्तशृङ्गीमातुर्मे .... उधं उधं उधं उधं उधं
वद भवानीमातुर्मे .... उधं उधं उधं उधं उधं
सप्तशृङ्गीमातुर्मे .... उधं उधं उधं उधं उधं
Original Song in Marathi.
Lyrics - Ajay-Atul
Music - Ajay-Atul
Singer - Ajay
Movie - Savarkhed - ek gaon (Marathi)
Sanskrit Version
Lyrics - Shreehari V.G. (9619711054)
Singer - Mr. Datta Mestry
Chorus - Anuja, Shreehari
Videography - Vishnu Mestry
Recorded at - BM studio, Malad (west)
बहोत बढाया..... keep it up
ReplyDeleteThank you sir.. May I know your name?
DeleteSuperb sir great..
ReplyDeleteSuperb sir
ReplyDeleteखूप सुंदर लिहिलेत
ReplyDelete