अमृता विश्वविद्यापीठम् ।
भारतस्य दक्षिणस्यां दिशि स्थितम्
विद्यासाहित्यविज्ञानमन्दिरम् ।
दिव्यमस्ति भव्यमस्ति योगसाधनम्
प्रयोगशास्त्रयोश्चात्र सार्थमेलनम् ।।
अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम् ।।१।।
शालीयच्छात्राणां गेहमेकम्
विज्ञानवाणिज्यकलाज्ञानसाधनम् ।
अभियान्त्रिकीशिक्षणमिह चातुलं वरं
संशोधनपरजीवनाय प्रेरणास्थलम् ।।
अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम् ।।२।।
आश्रमोऽयम् कलापराणाम्
भारतीयसंस्कृतेः पूजकानाम् ।
आश्रमोऽयम् संस्कृते रतानाम्
शास्त्रचर्चया शास्त्ररक्षकाणाम् ।।
अमृतापीठम् विश्वविद्यापीठम्
अमृतस्य पीठम् विश्वविद्यापीठम् ।।३।।
Dr. Shreehari V. G.
Assistant Professor
Amrita Vishwa Vidyapeetham,
(International Center for Spiritual Studies),
Chennai Campus.