Sunday, 11 October 2015


। । सामर्थ्याष्टकम् । ।




पालक: पालकेभ्योऽपि तारकेभ्योऽपि तारक: ।
सङ्कटानां निवारार्थं समर्थो मे हरि: सदा । । 1 । ।

शरीरं मायया व्याप्तं मोहेनैवेन्द्रियाणि मे ।
रक्षितं तत्सदा येन समर्थो मे हरि: सदा । । 2 । ।

माता पिता गुरु: सर्वे नित्यं कुप्यन्ति बान्धवा:  ।
वत्सलो य: सदा नित्यं समर्थो मे हरि: सदा । । 3 । ।

चिन्तितं जीवनेऽस्मिन्वा सत्कार्यं मद्भविष्यति ।
सदैवारक्षको मृत्यो: समर्थो मे हरि: सदा । । 4 । ।

पूज्यते यदि भावेन काङ्क्षितं यदि चात्मना ।
दायक: स सदा सर्वं समर्थो मे हरि: सदा । । 5 । ।

तत्समीपे वदामीह द्वैतीभावो कदापि न ।
पाति सर्वान् सदा नित्यं समर्थो मे हरि: सदा । । 6 । ।

श्रूयतां श्रूयतां नाम पूज्येतां चरणौ तथा ।
स्मर्यतां स्मर्यतां कृष्ण: समर्थो मे हरि: सदा । । 7 । ।

ह्रियते त्रिविधं कष्टं ह्रियते पापदुस्तरम् ।
चिदानन्दस्वरूपोऽयं समर्थो मे हरि: सदा । । 8 । ।


। । इति श्रीहरिविरचितं सामर्थ्याष्टकं सम्पूर्णम् । ।

। । सामर्थ्याष्टकम् । ।

।। यमुनालहरी।।

यमुनातीरं यमुनानीरं यमुनापारं यमुनासारम् ।
यमुनाक्रीडा यमुनाव्रीडा यमुनासरितस्सकलं शरणम् ।।1।।

यमुनाशिक्षा यमुनाभिक्षा यमुनावीक्षा यमुनादीक्षा ।
यमुनासृष्टिर्यमुनातृप्तिर्यमुनासरितस्सकलं शरणम्।।2।।


यमुनागोपा यमुनानारी यमुनाबाला यमुनावृद्धा ।
यमुनाशीला यमुनालीला यमुनासरितस्सकलं शरणम्  ।।3।।

यमुनागन्धो यमुनाबन्धो यमुनास्कन्धो यमुनाच्छन्दः ।
यमुनास्नेहो यमुनाभावो यमुनासरितस्सकलं शरणम्  ।।4।।

यमुनावृषभो यमुनावृक्षा यमुनाधेनुर्यमुनाधीरा ।
यमुनाकृष्टिर्यमुनावृष्टिर्यमुनासरितस्सकलं शरणम्  ।।5।।

यमुनावासो यमुनावासो यमुनावासो यमुनावासः ।
यमुनातालो यमुनाकालो यमुनासरितस्सकलं शरणम्  ।।6।।

यमुनानृत्यं यमुनाकृत्यं यमुनावृत्यं यमुनाहारः।
यमुनाधारा यमुनाकारा यमुनासरितस्सकलं शरणम्  ।।7।।

यमुनारात्रिर्यमुनानिद्रा यमुनाशैत्यं यमुनाच्छाया ।
यमुनाव्याप्तिर्यमुनाप्राप्तिर्यमुनासरितस्सकलं शरणम्  ।।8।।

यमुनातरणं यमुनाभरणं यमुनावेगो यमुनावेगः।
यमुनामौनं यमुनाभीतिर्यमुनासरितस्सकलं शरणम् ।।9।।

यमुनाशक्तिर्यमुनाभुक्तिर्यमुनाक्लृप्तिर्यमुनायोगः।
यमुनाधूतं यमुनापूतं यमुनासरितस्सकलं शरणम्  ।।10।।

यमुनाक्रोधो यमुनाभ्रान्तिर्यमुनाबोधो यमुनाशान्तिः।
यमुनानाट्यं यमुनाधार्ष्ट्यं यमुनासरितस्सकलं शरणम्  ।।11।।

यमुनाश्रवणं यमुनाश्रमणं यमुनाभ्रमणं यमुनाक्रमणम्।
यमुनाद्रवणं यमुनारमणं यमुनासरितस्सकलं शरणम्  ।।12।।

।। इति श्रीहरिविरचिता यमुनालहरी सम्पूर्णा ।।

।। यमुनालहरी।।

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com