रचयेम संस्कृतकवनम् ।
श्रीहरि:
रचयेम संस्कृतकवनम्
रचयेम संस्कृतकवनम् ।।
|
लेखनीं विना कर्गजं विना
केवलहस्ताङ्गुलिकलया
संस्कृतवाग्विशेषततया ।।1।।
|
श्लोको भवतु ... वास्तु समस्या...
कोऽपि विचारः कापि चर्चा
तज्ज्ञजनानां चिन्तनं वा
रचयेम संस्कृतस्तवनम्
रचयेम संस्कृतकवनम् ।।2।।
|
काव्यं लसतु हि
यज्जनमनसि
प्रसरतु गन्ध: काव्यसुमानाम्
प्रेरयतु मनश्चान्यजनानाम्
कविजनसंस्कृतनमनम्
रचयेम संस्कृतकवनम् ।।3।।
|
Post a Comment