Thursday, 26 November 2015

नटवर्यपञ्चकम्



सप्तकमेतत् नटवर्यप्रभाकरपणशीकरमहोदयेभ्यः समर्पितमस्ति ।
।। नटवर्यपञ्चकम् ।।


नाट्याधीशं सुवन्दे नटनगुणनिधिं वासुदेवस्य पुत्रम्
पादाक्रान्ता हि येन सततसकलभूः सा महाराष्ट्रभूमिः ।
प्राप्तं नैपुण्यमेवं नवनटविविधैः यत्प्रसादेन नित्यम्
आदित्याश्रित्यलोका अनुभवरहिता लब्धसंपन्नमार्गाः।।1।।


नाधीता येन विद्या गमितसदनो निश्चयस्य प्रमेरुः
सानन्दो नाट्यगर्भो गमितदिवसो सोढशारीरकष्टः ।
कार्यं कुर्वन्सदायं प्रतिभनवनवो प्राप्तकीर्तिर्जनेषु
कार्यारब्धा हि सन्तः सकलगुणधना पूर्णतां यान्ति नित्यम् ।।2।।

अतो वदामि -
नटानां नटोऽयं सुकीर्तिस्त्वदीया
सदा नाट्यरम्या सुमूर्तिस्त्वदीया ।
त्वया शिक्षिता रङ्गमञ्चस्थभावा
प्रभायै नमस्ते नटाधीश्वरस्य  ।।1।।

रतो लब्धकीर्तिः सदा नाटकेषु
महाराष्ट्रभूमेर्न किं तेन दृष्टम् ।
सुनाट्यप्रयोगाय सिद्धः सदायम्
प्रभायै नमो रंगभूमिप्रियस्य।।2।।

मनस्येव नाट्यं जनस्तेऽपि नाट्यं
सुसख्यं सुहृद्यं ननु प्राणनाट्यम् ।
विना नाटकं ते मनो नैव युङ्क्ते
प्रभायै नमो नाट्यसंजीवितस्य  ।।3।।

लखोबा स औरंगजेबो हि सर्वे
त्वया जीविता लीलया रंगभूमौ
गभीरो ध्वनिः सुष्ठु कायः सतेजः
प्रभायै नमः पात्रसंजीवितस्य  ।।4।।

प्रभा नाम ते सर्वलोकैर्विमान्या
कला नाम ते सर्वकालेषु वन्द्या ।
करैर्वन्दिता त्यागवृत्तिर्जनैर्हि
प्रभायै नमस्ते कलाजीवनाय  ।।5।।
।। इति श्रीहरिविरचितं नटवर्यपञ्चकम् सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com