Friday 13 May 2016

।। स्वाति, ते विवाहार्थम् ।। 
                                 श्रीहरि:

अयं विधिर्विवाहस्य सौख्यमङ्गलकारकः। 
गणेशस्य प्रसादेन कार्यसिद्धिर्भवेदिति ।।1।।


संस्कृतस्य च गीतस्य मिलापो हि भवेत् कदा ।
इति मत्वा दर्शनाय आयास्यन्ति दिवौकसः ।।2।।


स्वर्गे भुवि स्थिता देवा आगमिष्यन्ति मण्डपे।
सङ्गीतसंस्कृतं प्रायो न भूतो न भविष्यति ।।3।।


गीतं हि शोभते नित्यं योगेशस्य मुखे यथा। 
तथैव संस्कृता वाणी स्वातीकण्ठे विराजते।।4।।


हेऽनघ त्वं सृष्टिकर्ता पूरय जनवाञ्छनाः ।
क्लृप्तिमात्रेण ते बाढं मङ्गलं तनुयादिह ।।5।।


कवनं पञ्चकं यत्तु स्वातीप्रीत्यर्थमेव हि ।
विवाहार्थं शुभाशंसाः प्रेषयामो मुदा वयम्।।6।।

।। स्वाति, ते विवाहार्थम् ।।

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com