Sunday 23 August 2020

Tamil poet Thiruvalluvar


 तमिल­-आदिकवि: तिरुवल्लूवरमहोदय: |

डॉ. श्रीहरि: वासुदेव: गोकर्णकर:

संस्कॄतसाहित्यमि तमिलसाहित्यं प्रचुरं मृद्धं  वर्तते | तेषु साहित्येषु आदिमं काव्यंतिरुक्कुरल् इति मन्यते बुधै: | ग्रन्थोऽयं तमिलभाषिकानां कृते वेद: एव | तमिल­-आदिकवि: तिरुवल्लूवरमहोदय: ग्रन्थस्यास्य रचयिता | सामान्यकालात् प्राक् प्रथमे वर्षे लब्धजन्मा आदिकविरयं थेवा पुलवर:Ê वल्लुवर: तथा पोयामोडी पुलवर: इत्यादिभि: नामभि: विदितोऽस्ति |तिरुक्कुरल् इति ग्रन्थ:मुप्पाल:इति नाम्नाऽपि ज्ञायते यतोऽस्मिन् त्रय:विभागा: सन्ति यथा धर्म: (अरम्), अर्थ: (पोरुल्), काम: (इन्बम्) | मोक्षविषये एतेन महापुरुषेण किमपि लिखितं यत: तन्मतानुसारेण यदि मनुज: एतत् पुरुषार्थत्रयं सुचारुतया करोति चेत् : मोक्षार्ह: भवत्येव | ‘तिरक्कुरल इति ग्रन्थ: नैकासु भारतीयभाषासु तथा वैश्विकभाषासु अनूदित: वर्तते | एकषण्णवैकमिते वर्षे ग्रन्थस्यास्य अनुष्टुप्­छन्दसि संस्कृतानुवाद: कृ: अस्ति श्रीरामदेशिकन्­-महोदयेन |  

तिरु इति शब्दस्य अर्थ: ‘श्री:’ तथा कुरल् नाम लघु इति | वस्तुत: कुरल् इति तमिलभाषाया: लघुतमं छन्द: यस्मिन् प्रथमपङ्क्तौ चत्वार: शब्दा: तथा द्वितीयपङ्क्तौ केवलं शब्दत्रयं वर्तते | 1330 कुरलेषु रचित: अतीव प्राचीनतम: ग्रन्थोऽयम् इदानीमपि विश्वस्य कृते मार्गदर्शक: अस्ति |

|| धर्मकाण्ड: ||

(ईश्वरवन्दनम् 1)

अकारादेव निर्यान्ति समस्तान्यक्षराणि |

चराचरप्रपञ्चोऽयमीश्वरादेव जायते || 

(यतिवैभवम् 26)

सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनै: |

ये कुर्वन्त्युत्तमास्ते स्यु: अन्येत्वधममध्यमा: ||

(धर्मवैशिष्ट्यम्  34)

यत् कृतं शुद्धमनसा धर्म इति कथ्यते |

यच्छुद्धिरहितं कर्म केवलाडम्बरार्थकम् ||

(गार्हस्थ्यम् 45)

गार्हस्थ्यजीवनं यत् स्यात् स्नेहधर्मसमन्वितम् |

तदेव सार्थकं लोके तद्धि गार्हस्थ्यमुच्यते ||

(पत्नी 51)

दयादिगुणसम्पन्ना भर्तुरायानुसारत: |

करोति जीवनं याऽत्र सैव भार्येति कथ्यते ||

(पुत्रभाग्यम् 66)

अस्पष्टमधुरं पुत्रभाषितं शृणोति : |

एव कथयेत् रम्यं वीणावेण्वादिवादितम् || 

(Here, Putra is a small kid.)

(अतिथिसत्कार: 86)

तोषयित्वाऽतिथिं प्राप्तमन्यान् अतिथिसत्तमान् |

यो हि प्रतीक्षते सोऽयं देवानामतिथिर्भवेत् ||

( ताटस्थ्यम्  120)

अन्येषामपि वस्तूनि स्वकीयानीव पश्यता |

क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते | | 

( निग्रहशीलता 129)

वह्निजः स्यात् व्रणा: शान्ता: चिह्नमात्रं शाम्यति |

वागग्निजव्रणस्येह नैवोपशमनं भवेत् ||

( परदारपराङ्मुखता 147)

धर्ममार्गेण गार्हस्थ्यसेवनेनेह जीवत: |

अन्यदीयेषु दारेषु मतिरेव जायते ||


|| अर्थकाण्डः ||

( दौत्यम् 686)

नीतिज्ञा: स्फुतवक्ता धैर्यवान् रिपुसन्निधौ |

कालानुकूलप्रज्ञावान् दूत: स्यात् शास्त्रसम्मत: | |

( सभाकम्पविहीनता 725)

शब्दशास्त्रं पठित्वादौ अर्थशास्त्रं तत: पठ |  

सभायामुत्तरं वक्तुं तद्धैर्यं जनयेत् तव | |

( देश: 737)

तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्तत: | 

नदीभि: पञ्चभिश्चाङ्गै: युक्तं देशं प्रचक्षते ||

( दुर्ग: 743)

औन्नत्यदैघ्र्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधै: |

प्राकारं दुर्गशब्देन ब्रुवते शास्त्रवेदिन: ||

( सैन्यप्रयोजनम् 766)

वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता

राजविश्वासपात्रत्वं चत्वार: सैन्यगा गुणा: ||

( द्यूतम् 936)

दारिद्य्रदेवता द्यूतनाम्नी यं तु समाश्रयेत् |

इह सर्वसुखैर्मुक्त: परे नरकं व्रजेत् ||


|| कामकाण्ड: ||

( दर्शनवितर्कम् 1084)

नारीगुणसमेतायास्तस्यास्ते क्रूरचक्षुषी |

द्रष्टॄणां प्राणनाशार्थमुद्यक्ते तिष्ठत: सदा ||

( भावपरिज्ञानम् )

अस्यास्तु स्वञ्जने नेत्रे दॄष्टिद्वयसमन्विते |

मह्यं रोगं ददात्येका शमयत्यपरा तु तम् || 1091

मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता |

मय्यपश्यति मां दॄष्ट्वा कुर्यान्मन्दस्मितं तु सा || 1094

( सम्भोगसुखम् 1104)

कामाग्निं नूतनमिममेषा प्राप्तवती कुत: |

योऽग्नि: सन्निहित: शीत: दूरस्थ: प्रदहत्ययम् ||

( लावण्यमहिमा 1111)

सुमेषु मृदु त्वं हि शिरीष विजयी भव |

त्वत्तोऽपि मार्दवयुता मत्प्रिया¸ गर्वमुत्सृज ||

*****


To know more kindly visit.

https://www.gconnect.in/gctutor/thirukkural-%E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%81%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AF%81%E0%AE%B1%E0%AE%B3%E0%AF%8D-introduction-in-english/









About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com