Friday 13 January 2017





श्रावणे नीलघनो...

श्रावणे नीलघनो वर्षति सुखदां कौशेयधाराम्
प्रविकसिताः शाखिभ्यः कदाचित् हरिता मयूरकलापाः ।।

जागरित्वा यत्प्रतीक्षितं तत्सुखमेतद् द्वारे
इतस्ततो राधां मिलति अधुना श्यामो मुरारिः
आयाति ममाऽपि अधरे नाम ते हि उदार ।।1
 श्रावणे नीलघनो वर्षति..

वर्णानां कानने अपगतास्ते स्वप्नानां पक्षिणः
नीलकौशेये हि जले जलबिन्दूनां चित्रम्
गतजन्याः संस्तवकथयन् परिमल आयातोऽयम्  ।।2।।
श्रावणे नीलघनो वर्षति..

हरिते मारकतगृहेऽपि एति आतप: पीतायाः
मे भाले अम्भोबिन्दूनां जातचित्रपतङ्गो
मृद्गन्धेनासौ पूरितो गगनस्यावासोऽयम् ।।3
श्रावणे नीलघनो वर्षति..

पर्णे पर्णे शुभशकुनानां कोमल-आर्द्रा रेखाः
इति प्रीत्याः नाद-अनाहतः शब्दान् विना भाषा
अन्तर्हृदये स्वरः प्राप्तो हि अधुना सा वेला ।।4।।
श्रावणे नीलघनो वर्षति..






श्रावणात घन निळा बरसला
गीतकार : मंगेश पाडगांवकर, 
गायक : लता मंगेशकर, 
संगीतकार : श्रीनिवास खळे,
स्वरः (Sanskrit version sung by) – Anuja Panchal (9920969180)
Music arranger – Bhavit R (9784766418)
Vediography  – Vishnu Mestry (8976319379)
संस्कृतभावानुवादः - श्रीहरी (9619711054)



श्रावणात घन निळा बरसला in Sanskrit

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com