Sunday 11 October 2015


मोरया मोरया
Sanskrit Version of Marathi Song – “ Moraya Moraya”
 from movie Uladhal (उलाढाल)


हे देव द्वारमायातो गुणगानाय
त्वया विना मानवानां जन्म रे निरर्थम्
हे देव मया आहूत उद्धारकरणाय
आकाशमिव छाया तव समुद्र इव माया
मोरया मोरया मोरया मोरया

हे देवा तुझ्या दारी आलो गुणगान गाया
तुझ्या इना मानसाचा जन्म जाई वाया
हे देवा दिली हाक उद्धार कराया
आभाळाची छाया तुझी, समिंदराची माया
मोरया मोरया मोरया मोरया

मोरया मोरया - अनुवादः (Sanskrit translation)


मच गया शोर...
भावानुवादः = श्रीहरिः

मच गया शोर...
भावानुवादः = श्रीहरिः
आयाता वार्ता नगरीषु सर्वनगरीषु
आयाता वार्ता नगरीषु सर्वनगरीषु
आयातः कृष्णः रक्ष घटान् ते हि नगरीषु
आयातः कृष्णः रक्ष घटान् ते हि सदनेषु

Mach gayaa shor saari nagari re,  saari nagari re
Aayaa biraj kaa baka sambhaal teri gagari re

Mach gayaa shor - Sanskrit translation


रचयेम संस्कृतकवनम्
                          श्रीहरि:



रचयेम संस्कृतकवनम्
रचयेम संस्कृतकवनम्  ।।

लेखनीं विना कर्गजं विना
केवलहस्ताङ्गुलिकलया
संस्कृतवाग्विशेषततया ।।1।।

श्लोको भवतु ... वास्तु समस्या...
कोऽपि विचारः   कापि चर्चा
तज्ज्ञजनानां चिन्तनं वा
रचयेम संस्कृतस्तवनम्
रचयेम संस्कृतकवनम् ।।2।।

काव्यं लसतु हि यज्जनमनसि
प्रसरतु गन्ध: काव्यसुमानाम्
प्रेरयतु मनश्चान्यजनानाम्
कविजनसंस्कृतनमनम्
रचयेम संस्कृतकवनम् ।।3।।



रचयेम संस्कृतकवनम् । (A poem)


।। सर् सर्  आयान्ति वर्षाधाराः ।।
                            - श्रीहरि:


सर् सर् आयान्ति वर्षाधाराः
अत्र प्रसन्नाः सर्वे जीवाः
वृक्षैः प्राप्तं नवजीवनं
नृत्यन्ति मोदेन बालाः सततम् ।1




कृष्णा मेघाः पश्य आकाशे
धडाम् धुडुम् धडाम् धुडुम् गर्जन्ति ते 
जलेन क्लिन्नं जातमङ्गं
धो धो धो वर्षन्ति मेघाः सततम् ।2


धप् धप् पतन्ति जलप्रपाताः
ड्रँव् ड्रँव् कुर्वन्ति कूपमण्डूकाः 
टप् टप् गायन्ति पर्णेषु बिन्दवः
पक्ववटखादने मग्ना जनाः ।3


नवनर्तनं कुर्वन्ति बर्हिणः
सिंहा गर्जन्ति ननु मेघनादः 
सत्वरं वहन्ति सागरं नद्यः
प्राणा हि प्राणिनां वर्षाकालः ।4



।। सर् सर् आयान्ति वर्षाधाराः ।।(Sanskrit poem)

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com