Sunday 11 October 2015

। । सामर्थ्याष्टकम् । ।


। । सामर्थ्याष्टकम् । ।




पालक: पालकेभ्योऽपि तारकेभ्योऽपि तारक:
सङ्कटानां निवारार्थं समर्थो मे हरि: सदा 1

शरीरं मायया व्याप्तं मोहेनैवेन्द्रियाणि मे
रक्षितं तत्सदा येन समर्थो मे हरि: सदा 2

माता पिता गुरु: सर्वे नित्यं कुप्यन्ति बान्धवा
वत्सलो : सदा नित्यं समर्थो मे हरि: सदा 3

चिन्तितं जीवनेऽस्मिन्वा सत्कार्यं मद्भविष्यति
सदैवारक्षको मृत्यो: समर्थो मे हरि: सदा 4

पूज्यते यदि भावेन काङ्क्षितं यदि चात्मना
दायक: सदा सर्वं समर्थो मे हरि: सदा 5

तत्समीपे वदामीह द्वैतीभावो कदापि
पाति सर्वान् सदा नित्यं समर्थो मे हरि: सदा 6

श्रूयतां श्रूयतां नाम पूज्येतां चरणौ तथा
स्मर्यतां स्मर्यतां कृष्ण: समर्थो मे हरि: सदा 7

ह्रियते त्रिविधं कष्टं ह्रियते पापदुस्तरम्
चिदानन्दस्वरूपोऽयं समर्थो मे हरि: सदा 8


इति श्रीहरिविरचितं सामर्थ्याष्टकं सम्पूर्णम्

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

1 comments:

  1. Inspired from कैवल्याष्टकम् , I am happy to present सामर्थ्याष्टकम् before you. This describes lord Vishnu. I hope you all will rejoice chanting this stotra.

    ReplyDelete

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com