तृतीय: पाठ: ǀ
महाराष्ट्रस्य
विश्वविख्याता
क्रीडा
ǀ
Chapter Three
World famous sport of Maharashtra.
प्राचीनकालतो विविधा: क्रीडा: प्रचलिता:ǀ काश्चित् साङ्घिका: काश्चिच्च वैयक्तिका: ǀ साङ्घिकक्रीडासु कबड्डी इति भारतीया क्रीडा महाराष्ट्रराज्ये विशेषरूपेण लोकप्रियतां गता ǀ 'हुतुतू' इति तस्या अपरनाम ǀ तुकाराममहाराजस्य अभङ्गवचनेषु एषा क्रीडा 'हमामा, हुंबरी, हुतुतू' इत्यादिभि: नामभि: निर्दिष्टा ǀ बङ्गदेशे 'हुडू, दक्षिणभारते 'चेडुगुडु', उत्तरभारते 'कबड्डी' इति नाम्ना विख्यातैषा क्रीडाǀ