।। सर् सर् आयान्ति वर्षाधाराः ।।
- श्रीहरि:


सर् सर् आयान्ति वर्षाधाराः
अत्र प्रसन्नाः सर्वे जीवाः।
वृक्षैः प्राप्तं नवजीवनं
नृत्यन्ति मोदेन बालाः सततम् ।।1।।
कृष्णा मेघाः पश्य आकाशे
धडाम् धुडुम् धडाम् धुडुम् गर्जन्ति ते ।
जलेन क्लिन्नं जातमङ्गं
धो धो धो वर्षन्ति मेघाः सततम् ।।2।।

धप् धप् पतन्ति जलप्रपाताः
ड्रँव् ड्रँव् कुर्वन्ति कूपमण्डूकाः ।
टप् टप् गायन्ति पर्णेषु बिन्दवः
पक्ववटखादने मग्ना जनाः ।।3।।
नवनर्तनं कुर्वन्ति बर्हिणः
सिंहा गर्जन्ति ननु मेघनादः ।
सत्वरं वहन्ति सागरं नद्यः
प्राणा हि प्राणिनां वर्षाकालः ।।4।।
।। सर् सर् आयान्ति वर्षाधाराः ।।(Sanskrit poem)
04:43
sanskrit poetry, काव्य
