Thursday 26 November 2015

नटवर्यपञ्चकम्



सप्तकमेतत् नटवर्यप्रभाकरपणशीकरमहोदयेभ्यः समर्पितमस्ति
।। नटवर्यपञ्चकम् ।।


नाट्याधीशं सुवन्दे नटनगुणनिधिं वासुदेवस्य पुत्रम्
पादाक्रान्ता हि येन सततसकलभूः सा महाराष्ट्रभूमिः
प्राप्तं नैपुण्यमेवं नवनटविविधैः यत्प्रसादेन नित्यम्
आदित्याश्रित्यलोका अनुभवरहिता लब्धसंपन्नमार्गाः।।1।।


नाधीता येन विद्या गमितसदनो निश्चयस्य प्रमेरुः
सानन्दो नाट्यगर्भो गमितदिवसो सोढशारीरकष्टः
कार्यं कुर्वन्सदायं प्रतिभनवनवो प्राप्तकीर्तिर्जनेषु
कार्यारब्धा हि सन्तः सकलगुणधना पूर्णतां यान्ति नित्यम् ।।2।।

अतो वदामि -
नटानां नटोऽयं सुकीर्तिस्त्वदीया
सदा नाट्यरम्या सुमूर्तिस्त्वदीया
त्वया शिक्षिता रङ्गमञ्चस्थभावा
प्रभायै नमस्ते नटाधीश्वरस्य  ।।1।।

रतो लब्धकीर्तिः सदा नाटकेषु
महाराष्ट्रभूमेर्न किं तेन दृष्टम्
सुनाट्यप्रयोगाय सिद्धः सदायम्
प्रभायै नमो रंगभूमिप्रियस्य।।2।।

मनस्येव नाट्यं जनस्तेऽपि नाट्यं
सुसख्यं सुहृद्यं ननु प्राणनाट्यम्
विना नाटकं ते मनो नैव युङ्क्ते
प्रभायै नमो नाट्यसंजीवितस्य  ।।3।।

लखोबा औरंगजेबो हि सर्वे
त्वया जीविता लीलया रंगभूमौ
गभीरो ध्वनिः सुष्ठु कायः सतेजः
प्रभायै नमः पात्रसंजीवितस्य  ।।4।।

प्रभा नाम ते सर्वलोकैर्विमान्या
कला नाम ते सर्वकालेषु वन्द्या
करैर्वन्दिता त्यागवृत्तिर्जनैर्हि
प्रभायै नमस्ते कलाजीवनाय  ।।5।।
।। इति श्रीहरिविरचितं नटवर्यपञ्चकम् सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com