।। मह्लारपञ्चकम् ।।
जयं देहि मार्तण्ड धान्यं सुपुत्रं
कृपा ते सदा वर्षतु क्षेमसौख्यम् ।
तव प्रार्थना सर्वकामान्ददाति
कृपा ते सदा वर्षतु क्षेमसौख्यम् ।
तव प्रार्थना सर्वकामान्ददाति
नमो जेजुरीवासिमह्लार
पाहि ।।1।।
महाराक्षसेभ्यो मनस्तापदायी
महादैवतेभ्यो भृशं मोददायी ।
महासाधकेभ्यश्चिरं मोक्षदायी
नमो जेजुरीवासिमह्लार पाहि ।।2।।
महादैवतेभ्यो भृशं मोददायी ।
महासाधकेभ्यश्चिरं मोक्षदायी
नमो जेजुरीवासिमह्लार पाहि ।।2।।
हरिद्रा हि ते भालदेशे सुभाति
हता येन शुंभादिदैत्या रणेषु ।
हृदा शोभते म्हाळसादेव नित्यं
हता येन शुंभादिदैत्या रणेषु ।
हृदा शोभते म्हाळसादेव नित्यं
नमो
जेजुरीवासिमह्लार पाहि ।।3।।
ललाटे च सा बालचन्द्रस्य शोभा
ललामस्य ते
कान्तिरेवाद्वितीया।
लतापुष्पपूज्या
सुमूर्तिस्त्वदीया
नमो
जेजुरीवासिमह्लार पाहि ।।4।।
रविश्चन्द्रमा देवताः स्तूयते यो
रमेशादिभूतादिसामर्थ्यदाता ।
रतो नित्यभक्तेच्छपूर्तौ सदा हि
रमेशादिभूतादिसामर्थ्यदाता ।
रतो नित्यभक्तेच्छपूर्तौ सदा हि
नमो
जेजुरीवासिमह्लार पाहि ।।5।।
मह्लारपञ्चकमिदं यः पठेत् शृणुयादपि ।
स प्राप्नोति चिरं सौख्यं शिवलोकं च गच्छति ।।6।।
मह्लारपञ्चकमिदं यः पठेत् शृणुयादपि ।
स प्राप्नोति चिरं सौख्यं शिवलोकं च गच्छति ।।6।।
।। इति
श्रीहरिविरचितं मह्लारपञ्चकं सम्पूर्णम्।।
यळकोट यळकोट जय मह्लार !!
This stotra is dedicated to our Guruvarya Dr. Malhar Kulkarni Sir.
ReplyDelete