Saturday 10 October 2015

।। नटवर्यसप्तकम् ।।


सप्तकमेतत् नटवर्यप्रभाकरपणशीकरमहोदयेभ्यः समर्पितमस्ति
।। नटवर्यसप्तकम् ।।

नाट्याधीशं सुवन्दे नटनगुणनिधिं वासुदेवस्य पुत्रम्
पादाक्रान्ता हि येन सततसकलभूः सा महाराष्ट्रभूमिः
प्राप्तं नैपुण्यमेवं नवनटविविधैर्यत्प्रसादेन नित्यम्
आदित्याश्रित्यलोका अनुभवरहिता लब्धसंपन्नमार्गाः।।1।।

नाधीता येन विद्या गमितसदनो निश्चयस्य प्रमेरुः
सानन्दो नाट्यगर्भो गमितदिवसो सोढशारीरकष्टः
कार्यं कुर्वन्सदायं प्रतिभनवनवो प्राप्तकीर्तिर्जनेषु
कार्यारब्धा हि सन्तः सकलगुणधना पूर्णतां यान्ति नित्यम् ।।2।।

अतो वदामि -
नटानां नटोऽयं सुकीर्तिस्त्वदीया
सदा नाट्यरम्या सुमूर्तिस्त्वदीया
त्वया शिक्षिता रङ्गमञ्चस्थभावा:
प्रभायै नमस्ते नटाधीश्वरस्य  ।।1।।

रतो लब्धकीर्तिः सदा नाटकेषु
महाराष्ट्रभूमेर्न किं तेन दृष्टम्
सुनाट्यप्रयोगाय सिद्धः सदायं
प्रभायै नमो रङ्गभूमिप्रियस्य ।।2।।

मनस्येव नाट्यं जनस्तेऽपि नाट्यं
सुसख्यं सुहृद्यं ननु प्राणनाट्यम्
विना नाटकं ते मनो नैव युङ्क्ते
प्रभायै नमो नाट्यसंजीवितस्य  ।।3।।

लखोबा औरङ्गजेबो हि सर्वे
त्वया जीविता लीलया रङ्गभूमौ
गभीरो ध्वनिः सुष्ठु कायः सतेजाः
प्रभायै नमः पात्रसंजीवितस्य  ।।4।।

प्रभा नाम ते सर्वलोकैर्विमान्या
कला नाम ते सर्वकालेषु वन्द्या
करैर्वन्दिता त्यागवृत्तिर्जनैर्हि
प्रभायै नमस्ते कलाजीवनस्य  ।।5।।

।। इति श्रीहरिविरचितं नटवर्यसप्तकं सम्पूर्णम् ।।


About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com