Friday 9 October 2015

।।सन्ध्यासप्तकम् ।।


पुरेचाकुलं विश्वख्यातिं सुनेतुं
यया स्वीकृतं जन्म तस्मिन् कुटुम्बे
सदा संस्कृते भारते प्रीतिरस्या
जनैर्नम्यते त्यागशीला सुसन्ध्या ।।1।।



यदि ग्गुर्जरी मातृभाषा हि तस्याः
तथापि 'मराठी' सलीलं वदन्ती
यथा जन्मभूमिस्तथा कर्मभूमिः
तया नम्यमाना महाराष्ट्रभूमिः।।2।।

सुनृत्यस्य बीजं हि पित्रैव दृष्टम्
अतः पार्वतीपुत्रमानीय तेन
सदा प्रेरणानीतिविश्वासमायो
बहु स्मर्यतेऽयं तया तस्य भावः ।।3।।


   सदा नाट्यशास्त्रं गुरोर्या पठन्ती
कृतो रङ्गमञ्चे सशास्त्रः प्रयोगः
यया जीवनं नृत्यकार्याय दत्तं
नमो नाट्यवर्ये नमः कोटिवारम् ।।4।।

सुनाट्यं हि प्राणाः सुनाट्यं हृद्यं
तया जीवनं नाट्यकार्याय दत्तम्
अतः शासनेनापि सम्मानिता या
नमो नाट्यवर्ये नमः कोटिवारम् ।।5।।

गुरुं चानुगम्या गुरुप्रेमरम्या
गुरुस्तोत्रगीता गुरुं स्मर्यमाणा
सदानन्दलीना चिदानन्दमग्ना
नमो मातृरूपे गुरुस्थानगम्ये ।।6।।

सदा भावगम्या सुसंस्कारजन्या
मुदा शिष्यरम्या हृदा शिष्यरम्या
तपोतेजसा या भुवि राजते हि
सदा वन्दनीया गुरुः सा सुसन्ध्या ।।7।।


।।इति श्रीहरिविरचितं सन्ध्यासप्तकं सम्पूर्णम् ।।

About the Author

Shreehari Gokarnakar

Author & Editor

He is a Teacher and researcher in Sanskrit language.

Post a Comment

 
SANSKRIT SHREE: © 2015 - Blogger Templates Designed by Templateism.com